(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.145. अध्यायः 145
Mahabharata - Adi Parva - Chapter Topics
अर्जुनस्य परीक्षा॥ 1 ॥ कर्णस्य रङ्गप्रवेशः॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text

वैशम्पायन उवाच। 1-145-0x(857)(6586)
कुरुराजे हि रङ्गस्थे भीमे च बलिनां वरे।
पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः॥ 1-145-1(6587)
जय हे कुरुराजेति जय हे भीम इत्युत।
पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः॥ 1-145-2(6588)
ततः क्षुब्धार्णवनिभं रङ्गमालोक्य बुद्धिमान्।
भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत्॥ 1-145-3(6589)
वारयैतौ महावीर्यौ कृतयोग्यावुभावपि।
मा भूद्रङ्गप्रकोपोऽयं भीमदुर्योधनोद्भवः॥ 1-145-4(6590)
वैशम्पायन उवाच। 1-145-5x(858)
`तत उत्थाय वेगेन अश्वत्थामा न्यवारयत्।
गुरोराज्ञा भीम इति गान्धारे गुरुशासनम्।
अलं शिक्षाकृतं वेगमलं साहसमित्युत॥' 1-145-5(6591)
ततस्तावुद्यतगतौ गुरुपुत्रेण वारितौ।
युगान्तानिलसंक्षुब्धौ महावेलाविवार्णवौ॥ 1-145-6(6592)
ततो रङ्गाङ्गणगतो द्रोणो वचनमब्रवीत्।
निवार्य वादित्रगणं महामेघनिभस्वनम्॥ 1-145-7(6593)
यो मे पुत्रात्प्रियतरः सर्वशस्त्रविशारदः।
ऐन्द्रिरिन्द्रानुजसमः स पार्थो दृश्यतामिति॥ 1-145-8(6594)
आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा।
बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः॥ 1-145-9(6595)
काञ्चनं कवचं बिभ्रत्प्रत्यदृश्य फाल्गुनः।
सार्कः सेन्द्रायुधतडित्ससन्ध्य इव तोयदः॥ 1-145-10(6596)
ततः सर्वस्य रङ्गस्य समुत्पिञ्जलकोऽभवत्।
प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः॥ 1-145-11(6597)
प्रेक्षका ऊचुः। 1-145-12x(859)
एष कुन्तीसुतः श्रीमानेष मध्यमपाण्डवः।
एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता॥ 1-145-12(6598)
एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः।
एष शीलवतां चापि शीलज्ञाननिधिः परः॥ 1-145-13(6599)
वैशम्पायन उवाच। 1-145-14x(860)
इत्येवं तुमुला वाचः शुश्रुवुः प्रेक्षकेरिताः।
कुन्त्याः प्रस्रवसंयुक्तैरस्रैः क्लिन्नमुरोऽभवत्॥ 1-145-14(6600)
तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत्।
धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः॥ 1-145-15(6601)
क्षत्तः क्षुब्धार्णवनिभः किमेष सुमहास्वनः।
सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम्॥ 1-145-16(6602)
विदुर उवाच। 1-145-17x(861)
एष पार्थो महाराज फाल्गुनः पाण्डुनन्दनः।
अवतीर्णः सकवचस्तत्रैव सुमिहास्वनः॥ 1-145-17(6603)
धृतराष्ट्र उवाच। 1-145-18x(862)
धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते।
पृथारणिसमुद्भूतैस्त्रिभिः पाण्डववह्निभिः॥ 1-145-18(6604)
वैशम्पायन उवाच। 1-145-19x(863)
तस्मिन्प्रमुदिते रङ्गे कथंचित्प्रत्युपस्थिते।
दर्शयामास बीभत्सुराचार्यायास्त्रलाघवम्॥ 1-145-19(6605)
आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः।
वायव्येनासृजद्वह्निं पार्जन्येनासृजद्धनान्॥ 1-145-20(6606)
भौमेन प्रासृजद्भूमिं पार्वतेनासृजद्गिरीन्।
अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत्॥ 1-145-21(6607)
क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः।
क्षणेन रथमध्यस्थः क्षणेनावतरन्महीम्॥ 1-145-22(6608)
सुकुमारं च सूक्ष्मं च गुरु चापि गुरुप्रियः।
सौष्ठवेनाभिसंयुक्तः सोऽविध्यद्विविधैः शरैः॥ 1-145-23(6609)
भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम्।
पञ्चबाणानसंक्तान्संमुमोचैकबाणवत्॥ 1-145-24(6610)
गव्ये विषाणकोशे च चले रज्ज्ववलम्बिनि।
निचखान महावीर्यः सायकानेकविंशतिम्॥ 1-145-25(6611)
इत्येवमादि सुमहत्खड्गे धनुषि चानघ।
गदायां शस्त्रकुशलो मण्डलानि ह्यदर्शयत्॥ 1-145-26(6612)
ततः समाप्तभूयिष्ठे तस्मिन्कर्मणि भारत।
मन्दीभूते समाजे च वादित्रस्य च निःस्वने॥ 1-145-27(6613)
द्वारदेशात्समुद्भूतो माहात्म्यबलसूचकः।
वज्रनिष्पेषसदृशः शुश्रुवे भुजनिःस्वनः॥ 1-145-28(6614)
दीर्यन्ते किं नु गिरयः किंस्विद्भूमिर्विदीर्यते।
किंस्विदापूर्यते व्योम जलधाराघनैर्घनैः॥ 1-145-29(6615)
रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप।
द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा॥ 1-145-30(6616)
पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो वभौ।
पञ्चतारेण संयुक्तः सावित्रेणेव चन्द्रमाः॥ 1-145-31(6617)
अश्वत्थाम्ना च सहितं भ्रातॄणां शतमूर्जितम्।
दुर्योधनममित्रघ्नमुत्थितं पर्यवारयत्॥ 1-145-32(6618)
स तैस्तदा भ्रातृभिरुद्यतायुधै-
र्गदाग्रपाणिः समवस्थितैर्वृतः।
बभौ यथा दानवसंक्षये पुरा
पुनन्दरो देवगणैः समावृतः॥ ॥ 1-145-33(6619)

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि पञ्चचत्वारिंशदधिकशततमोऽध्यायः॥ 145 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-145-4 कृतयोग्यौ सुशिक्षितौ॥ 1-145-10 तूणकार्मुककवचानां तत्प्रभाजालस्यार्जुनस्य च क्रमादर्केन्द्रायुधतडित्संध्यातोयदैरुपमा॥ 1-145-11 समुत्पिञ्जलक उत्फुल्लता॥ 1-145-14 अस्रैः प्रेमाश्रुभिः॥ 1-145-23 सुकुमारं पूर्णघटकुक्कुटाण्डादीनि लक्ष्याण्यविचाल्याविध्यत्। सूक्ष्मं गुञ्जादि लक्ष्यं, गुरु घनावयवं च सोऽविध्यत्॥ 1-145-25 भूताश्वेभवराहाणां सिंहर्क्षकपिसंमुखान्। बाणान्सप्तासमायुक्तान्स मुमोचैकबाणवत्। इति घपाठः। गव्ये गोसंबन्धिनि॥ 1-145-31 सावित्रेण हस्तनक्षत्रेण॥ 1-145-33 गदा अग्रं आलम्बनं यस्य तादृशः पाणिर्यस्य स गादाग्रपाणिः॥ पञ्चचत्वारिंशदधिकशततमोऽध्यायः॥ 145 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.